Daya Satakam – दयाशतकम्

Daya Satakam – दयाशतकम्

प्रपद्ये तं गिरिं प्रायः श्रीनिवासानुकम्पया ।
इक्षुसारस्रवन्त्येव यन्मूर्त्या शर्करायितम् ॥ १ ॥

विगाहे तीर्थबहुलां शीतलां गुरुसन्ततिम् ।
श्रीनिवासदयाम्भोधिपरीवाहपरम्पराम् ॥ २ ॥

कृतिनः कमलावासकारुण्यैकान्तिनो भजे ।
धत्ते यत्सूक्तिरूपेण त्रिवेदी सर्वयोग्यताम् ॥ ३ ॥

पराशरमुखान्वन्दे भगीरथनये स्थितान् ।
कमलाकान्तकारुण्यगङ्गाप्लावितमद्विधान् ॥ ४ ॥

अशेषविघ्नशमनमनीकेश्वरमाश्रये ।
श्रीमतः करुणाम्भोधौ शिक्षास्रोत इवोत्थितम् ॥ ५ ॥

समस्तजननीं वन्दे चैतन्यस्तन्यदायिनीम् ।
श्रेयसीं श्रीनिवासस्य करुणामिव रूपिणीम् ॥ ६ ॥

वन्दे वृषगिरीशस्य महिषीं विश्वधारिणीम् ।
तत्कृपाप्रतिघातानां क्षमया वारणं यया ॥ ७ ॥

निशामयतु मां नीळा यद्भोगपटलैर्ध्रुवम् ।
भावितं श्रीनिवासस्य भक्तदोषेष्वदर्शनम् ॥ ८ ॥

कमप्यनवधिं वन्दे करुणावरुणालयम् ।
वृषशैलतटस्थानां स्वयं व्यक्तिमुपागतम् ॥ ९ ॥

अकिञ्चननिधिं सूतिमपवर्गत्रिवर्गयोः ।
अञ्जनाद्रीश्वरदयामभिष्टौमि निरञ्जनाम् ॥ १० ॥

अनुचरशक्त्यादिगुणामग्रेसरबोधविरचितालोकाम् ।
स्वाधीनवृषगिरीशां स्वयं प्रभूतां प्रमाणयामि दयाम् ॥ ११ ॥

अपि निखिललोकसुचरितमुष्टिन्धयदुरितमूर्छनाजुष्टम् ।
सञ्जीवयतु दये मामञ्जनगिरिनाथरञ्जनी भवती ॥ १२ ॥

भगवति दये भवत्या वृषगिरिनाथे समाप्लुते तुङ्गे ।
अप्रतिघमज्जनानां हस्तालम्बो मदागसां मृग्यः ॥ १३ ॥

कृपणजनकल्पलतिकां कृतापराधस्य निष्क्रियामाद्याम् ।
वृषगिरिनाथदये त्वां विदन्ति संसारतारिणीं विबुधाः ॥ १४ ॥

वृषगिरिगृहमेधिगुणा बोधबलैश्वर्यवीर्यशक्तिमुखाः ।
दोषा भवेयुरेते यदि नाम दये त्वया विनाभूताः ॥ १५ ॥

आसृष्टि सन्ततानामपराधानां निरोधिनीं जगतः ।
पद्मासहायकरुणे प्रतिसञ्चरकेळिमाचरसि ॥ १६ ॥

अचिदविशिष्टान्प्रलये जन्तूनवलोक्य जातनिर्वेदा ।
करणकलेबरयोगं वितरसि वृषशैलनाथकरुणे त्वम् ॥ १७ ॥

अनुगुणदशार्पितेन श्रीधरकरुणे समाहितस्नेहा ।
शमयसि तमः प्रजानां शास्त्रमयेन स्थिरप्रदीपेन ॥ १८ ॥

रुढा वृषाचलपतेः पादे मुखकान्तिपत्रलच्छाया ।
करुणे सुखयसि विनतान्कटाक्षविटपैः करापचेयफलैः ॥ १९ ॥

नयने वृषाचलेन्दोस्तारामैत्रीं दधानया करुणे ।
दृष्टस्त्वयैव जनिमानपवर्गमकृष्टपच्यमनुभवति ॥ २० ॥

समयोपनतैस्तव प्रवाहैरनुकम्पे कृतसम्प्लवा धरित्री ।
शरणागतसस्यमालिनीयं वृषशैलेशकृषीवलं धिनोति ॥ २१ ॥

कलशोदधिसम्पदो भवत्याः करुणे सन्मतिमन्थसंस्कृतायाः ।
अमृतांशमवैमि दिव्यदेहं मृतसञ्जीवनमञ्जनाचलेन्दोः ॥ २२ ॥

जलधेरिव शीतता दये त्वं वृषशैलाधिपतेस्स्वभावभूता ।
प्रलयारभटींनटीं तदीक्षां प्रसभं ग्राहयसि प्रसक्तिलास्यम् ॥ २३ ॥

प्रणतप्रतिकूलमूलघाती प्रतिघः कोऽपि वृषाचलेश्वरस्य ।
कलमे यवसापचायनीत्या करुणे किङ्करतां तवोपयाति ॥ २४ ॥

अबहिष्कृतनिग्रहान्विदन्तः कमलाकान्तगुणान्स्वतन्त्रतादीन् ।
अविकल्पमनुग्रहं दुहानां भवतीमेव दये भजन्ति सन्तः ॥ २५ ॥

कमलानिलयस्त्वया दयालुः करुणे निष्करुणा निरूपणे त्वम् ।
अत एव हि तावकाश्रितानां दुरितानां भवति त्वदेव भीतिः ॥ २६ ॥

अतिलङ्घितशासनेष्वभीक्ष्णं वृषशैलाधिपतिर्विजृम्भितोष्मा ।
पुनरेव दये क्षमानिदानैर्भवतीमाद्रियते भवत्यधीनैः ॥ २७ ॥

करुणे दुरितेषु मामकेषु प्रतिकारान्तरदुर्जयेषु खिन्नः ।
कवचायितया त्वयैव शार्ङ्गी विजयस्थानमुपाश्रितो वृषाद्रिम् ॥ २८ ॥

मयि तिष्ठति दुष्कृतां प्रधाने मितदोषानितरान्विचिन्वती त्वम् ।
अपराधगणैरपूर्णकुक्षिः कमलाकान्तदये कथं भवित्री ॥ २९ ॥

अहमस्म्यपराधचक्रवर्ती करुणे त्वं च गुणेषु सार्वभौमी ।
विदुषी स्थितिमीदृशीं स्वयं मां वृषशैलेश्वरपादसात्कुरु त्वम् ॥ ३० ॥

अशिथिलकरणेऽस्मिन्नक्षतश्वासवृत्तौ
वपुषि गमनयोग्ये वासमासादयेयम् ।
वृषगिरिकटकेषु व्यञ्जयत्सु प्रतीतै-
र्मधुमथनदये त्वां वारिधाराविशेषैः ॥ ३१ ॥

अविदितनिजयोगक्षेममात्मानभिज्ञं
गुणलवरहितं मां गोप्तुकामा दये त्वम् ।
परवति चतुरैस्ते विभ्रमैश्श्रीनिवासे
बहुमतिमनपायां विन्दसि श्रीधरण्योः ॥ ३२ ॥

फलवितरणदक्षं पक्षपातानभिज्ञं
प्रगुणमनुविधेयं प्राप्य पद्मासहायम् ।
महति गुणसमाजे मानपूर्वं दये त्वं
प्रतिवदसि यथार्हं पाप्मनां मामकानाम् ॥ ३३ ॥

अनुभवितुमघौघं नालमागामिकालः
प्रशमयितुमशेषं निष्क्रियाभिर्न शक्यम् ।
स्वयमिति हि दये त्वं स्वीकृतश्रीनिवासा
शिथिलितभवभीतिश्श्रेयसे जायसे नः ॥ ३४ ॥

अवतरणविशेषैरात्मलीलापदेशै-
रवमतिमनुकम्पे मन्दचित्तेषु विन्दन् ।
वृषभशिखरिनाथस्त्वन्निदेशेन नूनं
भजति चरणभाजां भाविनो जन्मभेदान् ॥ ३५ ॥

परहितमनुकम्पे भावयन्त्यां भवत्यां
स्थिरमनुपधि हार्दं श्रीनिवासो दधानः ।
ललितरुचिषु लक्ष्मीभूमिनीलासु नूनं
प्रथयति बहुमानं त्वत्प्रतिच्छन्दबुद्ध्या ॥ ३६ ॥

वृषगिरिसविधेषु व्याजतो वासभाजां
दुरितकलुषितानां दूयमाना दये त्वम् ।
करणविलयकाले कान्दिशीकस्मृतीनां
स्मरयसि बहुलीलं माधवं सावधाना ॥ ३७ ॥

दिशि दिशि गतिविद्भिर्देशिकैर्नीयमाना
स्थिरतरमनुकम्पे स्त्यानलग्ना गुणैस्त्वम् ।
परिगतवृषशैलं पारमारोपयन्ती
भवजलधिगतानां पोतपात्री भवित्री ॥ ३८ ॥

परिमितफलसङ्गात्प्राणिनः किम्पचाना
निगमविपणिमध्ये नित्यमुक्तानुषक्तम् ।
प्रसदनमनुकम्पे प्राप्तवत्यां भवत्यां
वृषगिरिहरिनीलं व्यञ्जितं निर्विशन्ति ॥ ३९ ॥

त्वयि बहुमतिहीनश्श्रीनिवासानुकम्पे
जगति गतिमिहान्यां देवि सम्मन्यते यः ।
स खलु विबुधसिन्धौ सन्निकर्षे वहन्त्यां
शमयति मृगतृष्णावीचिकाभिः पिपासाम् ॥ ४० ॥

आज्ञां ख्यातिं धनमनुचरानाधिराज्यादिकं वा
काले दृष्ट्वा कमलवसतेरप्यकिञ्चित्कराणि ।
पद्माकान्तं प्रणिहितवतीं पालनेऽनन्यसाध्ये
साराभिज्ञा जगति कृतिनस्संश्रयन्ते दये त्वाम् ॥ ४१ ॥

प्राजापत्यप्रभृतिविभवं प्रेक्ष्य पर्यायदुःखं
जन्माकाङ्क्षन्वृषगिरिवने जग्मुषां तस्थुषां वा ।
आशासानाः कतिचन विभोः त्वत्परिष्वङ्गधन्यै-
रङ्गीकारं क्षणमपि दये हार्दतुङ्गैरपाङ्गैः ॥ ४२ ॥

नाभीपद्मस्फुरणसुभगा नव्यनीलोत्पलाभा
क्रीडाशैलं कमपि करुणे वृण्वती वेङ्कटाख्यम् ।
शीता नित्यं प्रसदनवती श्रद्धधानावगाह्या
दिव्या काचिज्जयति महती दीर्घिका तावकीना ॥ ४३ ॥

यस्मिन्दृष्टे तदितरसुखैर्गम्यते गोष्पदत्वं
सत्यं ज्ञानं त्रिभिरवधिभिर्मुक्तमानन्दसिन्धुम् ।
त्वत्स्वीकारात्तमिह कृतिनस्सूरिबृन्दानुभाव्यं
नित्यापूर्वं निधिमिव दये निर्विशन्त्यञ्जनाद्रौ ॥ ४४ ॥

सारं लब्ध्वा कमपि महतश्श्रीनिवासाम्बुराशेः
काले काले घनरसवती कालिकेवानुकम्पे ।
व्यक्तोन्मेषा मृगपतिगिरौ विश्वमाप्याययन्ती
शीलोपज्ञं क्षरति भवती शीतलं सद्गुणौघम् ॥ ४५ ॥

भीमे नित्यं भवजलनिधौ मज्जतां मानवाना-
मालम्बार्थं वृषगिरिपतिस्त्वन्निदेशात्प्रयुङ्क्ते ।
प्रज्ञासारं प्रकृतिमहता मूलभागेन जुष्टं
शाखाभेदैस्सुभगमनघं शाश्वतं शास्त्रपाणिम् ॥ ४६ ॥

विद्वत्सेवाकतकनिकषैर्वीतपङ्काशयानां
पद्माकान्तः प्रणयति दये दर्पणं ते स्वशास्त्रम् ।
लीलादक्षां त्वदनवसरे लालयन्विप्रलिप्सां
मायाशास्त्राण्यपि शमयितुं त्वत्प्रपन्नप्रतीपान् ॥ ४७ ॥

दैवात्प्राप्ते वृषगिरितटं देहिनि त्वन्निदाना-
त्स्वामिन्पाहीत्यवशवचने विन्दति स्वापमन्त्यम् ।
देवश्श्रीमान् दिशति करुणे दृष्टिमिच्छंस्त्वदीया-
मुद्घातेन श्रुतिपरिषदामुत्तरेणाभिमुख्यम् ॥ ४८ ॥

श्रेयस्सूतिं सकृदपि दये सम्मतां यस्सखीं ते
शीतोदारामलभत जनश्श्रीनिवासस्य दृष्टिम् ।
देवादीनामयमनृणतां देहवत्त्वेऽपि विन्द-
न्बन्धान्मुक्तो बलिभिरनघैः पूर्यते तत्प्रयुक्तैः ॥ ४९ ॥

दिव्यापाङ्गं दिशसि करुणे येषु सद्देशिकात्मा
क्षिप्रं प्राप्ता वृषगिरिपतिं क्षत्रबन्ध्वादयस्ते ।
विश्वाचार्या विधिशिवमुखास्स्वाधिकारोपरुद्धा
मन्ये माता जड इव सुते वत्सला मादृशे त्वम् ॥ ५० ॥

अतिकृपणोऽपि जन्तुरधिगम्य दये भवती-
मशिथिलधर्मसेतुपदवीं रुचिरामचिरात् ।
अमितमहोर्मिजालमतिलङ्घ्य भवाम्बुनिधिं
भवति वृषाचलेशपदपत्तननित्यधनी ॥ ५१ ॥

अभिमुखभावसम्पदभिसम्भविनां भविनां
क्वचिदुपलक्षिता क्वचिदभङ्गुरगूढगतिः ।
विमलरसावहा वृषगिरीशदये भवती
सपदि सरस्वतीव शमयत्यघमप्रतिघम् ॥ ५२ ॥

अपि करुणे जनस्य तरुणेन्दुविभूषणता-
मपि कमलासनत्वमपि धाम वृषाद्रिपतेः ।
तरतमतावशेन तनुते ननु ते विततिः
परहितवर्ष्मणा परिपचेलिमकेलिमती ॥ ५३ ॥

धृतभुवना दये त्रिविधगत्यनुकूलतरा
वृषगिरिनाथपादपरिरम्भवती भवती ।
अविदितवैभवाऽपि सुरसिन्धुरिवातनुते
सकृदवगाहमानमपतापमपापमपि ॥ ५४ ॥

निगमसमाश्रिता निखिललोकसमृद्धिकरी
भजदघकूलमुद्वहगतिः परितप्तहिता ।
प्रकटितहंसमत्स्यकमठाद्यवतारशता
विबुधसरिच्छ्रियं वृषगिरीशदये वहसि ॥ ५५ ॥

जगति मितम्पचा त्वदितरा तु दये तरला
फलनियमोज्झिता भवति सन्तपनाय पुनः ।
त्वमिह निरङ्कुशप्रशकनादिविभूतिमती
वितरसि देहिनां निरवधिं वृषशैलनिधिम् ॥ ५६ ॥

सकरुणलौकिकप्रभुपरिग्रहनिग्रहयो-
र्नियतिमुपाधिचक्रपरिवृत्तिपरम्परया ।
वृषभमहीधरेशकरुणे वितरङ्गयतां
श्रुतिमितसम्पदि त्वयि कथं भविता विशयः ॥ ५७ ॥

वृषगिरिकृष्णमेघजनितां जनितापहरां
त्वदभिमतिं सुवृष्टिमुपजीव्य निवृत्ततृषः ।
बहुषु जलाशयेषु बहुमानमपोह्य दये
न जहति सत्पथं जगति चातकवत्कृतिनः ॥ ५८ ॥

त्वदुदयतूलिकाभिरमुना वृषशैलजुषा
स्थिरतरशिल्पिनैव परिकल्पितचित्रधियः ।
यतिपतियामुनप्रभृतयः प्रथयन्ति दये
जगति हितं न नस्त्वयि भरन्यसनादधिकम् ॥ ५९ ॥

मृदुहृदये दये मृदितकामहिते महिते
धृतविबुधे बुधेषु विततात्मधुरे मधुरे ।
वृषगिरिसार्वभौमदयिते मयि ते महतीं
भवुकनिधे निधेहि भवमूलहरां लहरीम् ॥ ६० ॥

अकूपारैरेकोदकसमयवैतण्डिकजवै-
रनिर्वाप्यां क्षिप्रं क्षपयितुमविद्याख्यबडबाम् ।
कृपे त्वं तत्तादृक्प्रथिमवृषपृथ्वीधरपति-
स्वरूपद्वैगुण्यद्विगुणनिजबिन्दुः प्रभवसि ॥ ६१ ॥

विवित्सावेतालीविगमपरिशुद्धेऽपि हृदये
पटुप्रत्याहारप्रभृतिपुटपाकप्रचकिताः ।
नमन्तस्त्वां नारायणशिखरिकूटस्थकरुणे
निरुद्धत्वद्द्रोहा नृपतिसुतनीतिं न जहति ॥ ६२ ॥

अनन्याधीनस्सन्भवति परतन्त्रः प्रणमतां
कृपे सर्वद्रष्टा न गणयति तेषामपकृतिम् ।
पतिस्त्वत्पारार्थ्यं प्रथयति वृषक्ष्माधरपति-
र्व्यवस्थां वैयात्यादिति विघटयन्ती विहरसि ॥ ६३ ॥

अपां पत्युश्शत्रूनसहनमुनेर्धर्मनिगलं
कृपे काकस्यैकं हितमिति हिनस्ति स्म नयनम् ।
विलीनस्वातन्त्र्यो वृषगिरिपतिस्त्वद्विहृतिभि-
र्दिशत्येवं देवो जनितसुगतिं दण्डनगतिम् ॥ ६४ ॥

निषादानां नेता कपिकुलपतिः कापि शबरी
कुचेलः कुब्जा सा व्रजयुवतयो माल्यकृदिति ।
अमीषां निम्नत्वं वृषगिरिपतेरुन्नतिमपि
प्रभूतैस्स्रोतोभिः प्रसभमनुकम्पे शमयसि ॥ ६५ ॥

त्वया दृष्टस्तुष्टिं भजति परमेष्ठी निजपदे
वहन्मूर्तीरष्टौ विहरति मृडानीपरिबृढः ।
बिभर्ति स्वाराज्यं वृषशिखरिशृङ्गारिकरुणे
शुनासीरो देवासुरसमरनासीरसुभटः ॥ ६६ ॥

दये दुग्धोदन्वद्व्यतियुतसुधासिन्धुनयत-
स्त्वदाश्लेषान्नित्यं जनितमृतसंजीवनदशाः ।
स्वदन्ते दान्तेभ्यश्श्रुतिवदनकर्पूरगुलिका
विवृण्वन्तश्चित्तं वृषशिखरिविश्वम्भरगुणाः ॥ ६७ ॥

जगज्जन्मस्थेमप्रलयरचनाकेलिरसिको
विमुक्त्यैकद्वारं विघटितकवाटं प्रणयिनाम् ।
इति त्वय्यायत्तं द्वितयमुपधीकृत्य करुणे
विशुद्धानां वाचां वृषशिखरिनाथस्स्तुतिपदम् ॥ ६८ ॥

कलिक्षोभोन्मीलत्क्षितिकलुषकूलङ्कषजवै-
रनुच्छेदै रेतैरवटतटवैषम्यरहितैः ।
प्रवाहैस्ते पद्मासहचरपरिष्कारिणि कृपे
विकल्पन्तेऽनल्पा वृषशिखरिणो निर्झरगुणाः ॥ ६९ ॥

खिलं चेतोवृत्तेः किमिदमिति विस्मेरभुवनं
कृपे सिंहक्ष्माभृत्कृतमुखचमत्कारकरणम् ।
भरन्यासच्छन्नप्रबलवृजिनप्राभृतभृतां
प्रतिप्रस्थानं ते श्रुतिनगरशृङ्गाटकजुषः ॥ ७० ॥

त्रिविधचिदचित्सत्तास्थेमप्रवृत्तिनियामिका
वृषगिरिविभोरिच्छा सा त्वं परैरपराहता ।
कृपणभरभृत्किङ्कुर्वाणप्रभूतगुणान्तरा
वहसि करुणे वैचक्षण्यं मदीक्षणसाहसे ॥ ७१ ॥

वृषगिरिपतेर्हृद्या विश्वावतारसहायिनी
क्षपितनिखिलावद्या देवि क्षमादिनिषेविता ।
भुवनजननी पुंसां भोगापवर्गविधायिनी
वितमसि पदे व्यक्तिं नित्यां बिभर्षि दये स्वयम् ॥ ७२ ॥

स्वयमुदयिनस्सिद्धाद्याविष्कृताश्च शुभालया
विविधविभवव्यूहावासाः परं च पदं विभोः ।
वृषगिरिमुखेष्वेतेष्विच्छावधि प्रतिलब्धये
दृढविनिहिता निश्रेणिस्त्वं दये निजपर्वभिः ॥ ७३ ॥

हितमिति जगद्दृष्ट्या क्लुप्तैरक्लुप्तफलान्तरै-
रमतिविहितैरन्यैर्धर्मायितैश्च यदृच्छया ।
परिणतबहुच्छद्मा पद्मासहायदये स्वयं
प्रदिशसि निजाभिप्रेतं नः प्रशाम्यदपत्रपा ॥ ७४ ॥

अतिविधिशिवैरैश्वर्यात्मानुभूतिरसैर्जना-
नहृदयमिहोपच्छन्द्यैषामसङ्गदशार्थिनी ।
तृषितजनतातीर्थस्नानक्रमक्षपितैनसां
वितरसि दये वीतातङ्का वृषाद्रिपतेः पदम् ॥ ७५ ॥

वृषगिरिसुधासिन्धौ जन्तुर्दये निहितस्त्वया
भवभयपरीतापच्छित्त्यै भजन्नघमर्षणम् ।
मुषितकलुषो मुक्तेरग्रेसरैरभिपूर्यते
स्वयमुपनतैस्स्वात्मानन्दप्रभृत्यनुबन्धिभिः ॥ ७६ ॥

अनितरजुषामन्तर्मूलेऽप्यपायपरिप्लवे
कृतविदनघा विच्छिद्यैषां कृपे यमवश्यताम् ।
प्रपदनफलप्रत्यादेशप्रसङ्गविवर्जितं
प्रतिविधिमुपाधत्से सार्धं वृषाद्रिहितैषिणा ॥ ७७ ॥

क्षणविलयिनां शास्त्रार्थानां फलाय निवेशिते
पितृसुरगणे निर्वेशात्प्रागपि प्रलयं गते ।
अधिगतवृषक्ष्माभृन्नाथामकालवशंवदां
प्रतिभुवमिह व्याचख्युस्त्वां कृपे निरुपप्लवाम् ॥ ७८ ॥

त्वदुपसदनादद्य श्वो वा महाप्रलयेऽपि वा
वितरति निजं पादाम्भोजं वृषाचलशेखरः ।
तदिह करुणे तत्तत्क्रीडातरङ्गपरम्परा-
तरतमतया जुष्टायास्ते दुरत्ययतां विदुः ॥ ७९ ॥

प्रणिहितधियां त्वत्सम्पृक्ते वृषाद्रिशिखामणौ
प्रसृमरसुधाधाराकारा प्रसीदति भावना ।
दृढमिति दये दत्तास्वादं विमुक्तिवलाहकं
निभृतगरुतो निध्यायन्ति स्थिराशयचातकाः ॥ ८० ॥

कृपे विगतवेलया कृतसमग्रपोषैस्त्वया
कलिज्वलनदुर्गते जगति कालमेघायितम् ।
वृषक्षितिधरादिषु स्थितिपदेषु सानुप्लवै-
र्वृषाद्रिपतिविग्रहैर्व्यपगताखिलावग्रहैः ॥ ८१ ॥

प्रसूय विविधं जगत्तदभिवृद्धये त्वं दये
समीक्षणविचिन्तनप्रभृतिभिस्स्वयं तादृशैः ।
विचित्रगुणचित्रितां विविधदोषवैदेशिकीं
वृषाचलपतेस्तनुं विशसि मत्स्यकूर्मादिकाम् ॥ ८२ ॥

युगान्तसमयोचितं भजति योगनिद्रारसं
वृषक्षितिभृदीश्वरे विहरणक्रमाज्जाग्रति ।
उदीर्णचतुरर्णवीकदनवेदिनीं मेदिनीं
समुद्धृतवती दये त्वदभिजुष्टया दंष्ट्रया ॥ ८३ ॥

सटापटलभीषणे सरभसाट्टहासोद्भटे
स्फुरत्क्रुधि परिस्फुटभ्रुकुटिकेऽपि वक्त्रे कृते ।
दये वृषगिरीशितुर्दनुजडिम्भदत्तस्तना
सरोजसदृशा दृशा समुदिताकृतिर्दृश्यसे ॥ ८४ ॥

प्रसक्तमधुना विधिप्रणिहितैस्सपर्योदकै-
स्समस्तदुरितच्छिदा निगमगन्धिना त्वं दये ।
अशेषमविशेषतस्त्रिजगदञ्जनाद्रीशितु-
श्चराचरमचीकरश्चरणपङ्कजेनाङ्कितम् ॥ ८५ ॥

परश्वथतपोधनप्रथनसत्कृतूपाकृत-
क्षितीश्वरपशुक्षरत्क्षतजकुङ्कुमस्थासकैः ।
वृषाचलदयालुना ननु विहर्तुमालिप्यथाः
निधाय हृदये दये निहतरक्षितानां हितम् ॥ ८६ ॥

कृपे कृतजगद्धिते कृपणजन्तुचिन्तामणे
रमासहचरं तदा रघुधुरीणयन्त्या त्वया ।
व्यभज्यत सरित्पतिस्सकृदवेक्षणात्तत्क्षणा-
त्प्रकृष्टबहुपातकप्रशमहेतुना सेतुना ॥ ८७ ॥

कृपे परवतस्त्वया वृषगिरीशितुः क्रीडितं
जगद्धितमशेषतस्तदिदमित्थमर्थाप्यते ।
मदच्छलपरिच्युतप्रणतदुष्कृतप्रेक्षितै-
र्हतप्रबलदानवैर्हलधरस्य हेलाशतैः ॥ ८८ ॥

प्रभूतविबुधद्विषद्भरणखिन्नविश्वम्भरा-
भरापनयनच्छलात्त्वमवतार्य लक्ष्मीधरम् ।
निराकृतवती दये निगमसौधदीपश्रिया
विपश्चिदविगीतया जगति गीतयाऽन्धं तमः ॥ ८९ ॥

वृषाद्रिहयसादिनः प्रबलदोर्मरुत्प्रेङ्खित-
स्त्विषा स्फुटतटिद्गुणस्त्वदवसेकसंस्कारवान् ।
करिष्यति दये कलिप्रबलघर्मनिर्मूलनं
पुनः कृतयुगाङ्कुरं भुवि कृपाणधाराधरः ॥ ९० ॥

विश्वोपकारमिति नाम सदा दुहाना-
मद्यापि देवि भवतीमवधीरयन्तम् ।
नाथे निवेशय वृषाद्रिपतौ दये त्वं
न्यस्तस्वरक्षणभरं त्वयि मां त्वयैव ॥ ९१ ॥

नैसर्गिकेण तरसा करुणे नियुक्ता
निम्नेतरेऽपि मयि ते विततिर्यदि स्यात् ।
विस्मापयेद्वृषगिरीश्वरमप्यवार्या
वेलातिलङ्घनदशेव महाम्बुराशेः ॥ ९२ ॥

विज्ञातशासनगतिर्विपरीतवृत्त्या
वृत्रादिभिः परिचितां पदवीं भजामि ।
एवं विधे वृषगिरीशदये मयि त्वं
दीने विभोश्शमय दण्डधरत्वलीलाम् ॥ ९३ ॥

मासाहसोक्तिघनकञ्चुकवञ्चितान्यः
पश्यत्सु तेषु विदधाम्यतिसाहसानि ।
पद्मासहायकरुणे न रुणत्सि किं त्वं
घोरं कुलिङ्गशकुनेरिव चेष्टितं मे ॥ ९४ ॥

विक्षेपमर्हसि दये विपलायितेऽपि
व्याजं विभाव्य वृषशैलपतेर्विहारम् ।
स्वाधीनसत्वसरणिस्स्वयमत्र जन्तौ
द्राघीयसी दृढतरा गुणवागुरा त्वम् ॥ ९५ ॥

सन्तन्यमानमपराधगणं विचिन्त्य
त्रस्यामि हन्त भवतीं च विभावयामि ।
अह्नाय मे वृषगिरीशदये जहीमा-
माशीविषग्रहणकेलिनिभामवस्थाम् ॥ ९६ ॥

औत्सुक्यपूर्वमुपहृत्य महापराधा-
न्मातः प्रसादयितुमिच्छति मे मनस्त्वाम् ।
आलिह्य तान्निरवशेषमलब्धतृप्ति-
स्ताम्यस्यहो वृषगिरीशधृता दये त्वम् ॥ ९७ ॥

जह्याद्वृषाचलपतिः प्रतिघेऽपि न त्वां
घर्मोपतप्त इव शीतलतामुदन्वान् ।
सा मामरुन्तुदभरन्यसनानुवृत्ति-
स्तद्वीक्षणैः स्पृश दये तव केलिपद्मैः ॥ ९८ ॥

दृष्टेऽपि दुर्बलधियं दमनेऽपि दृप्तं
स्नात्वाऽपि धूलिरसिकं भजनेऽपि भीमम् ।
बद्ध्वा गृहाण वृषशैलपतेर्दये मां
त्वद्वारणं स्वयमनुग्रहशृङ्खलाभिः ॥ ९९ ॥

नातः परं किमपि मे त्वयि नाथनीयं
मातर्दये मयि कुरुष्व तथा प्रसादम् ।
बद्धादरो वृषगिरिप्रणयी यथाऽसौ
मुक्तानुभूतिमिह दास्यति मे मुकुन्दः ॥ १०० ॥

निस्सीमवैभवजुषां मिषतां गुणानां
स्तोतुर्दये वृषगिरीशगुणेश्वरीं त्वाम् ।
तैरेव नूनमवशैरभिनन्दितं मे
सत्यापितं तव बलादकुतोभयत्वम् ॥ १०१ ॥

अद्यापि तद्वृषगिरीशदये भवत्या-
मारंभमात्रमनिदं प्रथमस्तुतीनाम् ।
सन्दर्शितस्वपरनिर्वहणा सहेथाः
मन्दस्य साहसमिदं त्वयि वन्दिनो मे ॥ १०२ ॥

प्रायो दये त्वदनुभावमहाम्बुराशौ
प्राचेतसप्रभृतयोऽपि परं तटस्थाः ।
तत्रावतीर्णमतलस्पृशमाप्लुतं मां
पद्मापतेः प्रहसनोचितमाद्रियेथाः ॥ १०३ ॥

वेदान्तदेशिकपदे विनिवेश्य बालं
देवो दयाशतकमेतदवादयन्माम् ।
वैहारिकेण विधिना समये गृहीतं
वीणाविशेषमिव वेङ्कटशैलनाथः ॥ १०४ ॥

अनवधिमधिकृत्य श्रीनिवासानुकम्पा-
मवितथविषयत्वाद्विश्वमव्रीळयन्ती ।
विविधकुशलनीवी वेङ्कटेशप्रसूता
स्तुतिरियमनवद्या शोभते सत्वभाजाम् ॥ १०५ ॥

शतकमिदमुदारं सम्यगभ्यस्यमानान्
वृषगिरिमधिरुह्य व्यक्तमालोकयन्ती ।
अनितरशरणानामाधिराज्येऽभिषिञ्चे-
च्छमितविमतपक्षा शार्ङ्गधन्वानुकम्पा ॥ १०६ ॥

विश्वानुग्रहमातरं व्यतिषजत्स्वर्गापवर्गां सुधा-
सध्रीचीमिव वेङ्कटेश्वरकविर्भक्त्या दयामस्तुत ।
पद्मानामिह यद्विधेयभगवत्सङ्कल्पकल्पद्रुमा-
ज्जञ्झामारुतधूतचूतनयतस्साम्पातिकोऽयं क्रमः ॥ १०७ ॥

कामं सन्तु मिथः करम्बितगुणावद्यानि पद्यानि नः
कस्यास्मिन् शतके सदम्बुकतके दोषश्रुतिं क्षाम्यति ।
निष्प्रत्यूहवृषाद्रिनिर्झरझरत्कारच्छलेनोच्चल-
द्दीनालम्बनदिव्यदम्पतिदयाकल्लोलकोलाहलः ॥ १०८ ॥

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु दयाशतकम् ।

Leave a Comment