Kevalaashtakam – केवलाष्टकम्

Kevalaashtakam – केवलाष्टकम्

मधुरं मधुरेभ्योऽपि, मङ्गलेभ्योऽपि मङ्गलं ।
पावनं पावनेभ्योऽपि, हरेर्नामैव केवलम् ॥ १ ॥

आब्रह्मस्तम्भपर्यन्तं, सर्वं मायामयं जगत् ।
सत्यं सत्यं पुनः सत्यं, हरेर्नामैव केवलम् ॥ २ ॥

स गुरुः स पिता चापि, सा माता बान्धवोऽपि सः ।
शिक्षयेच्चेत् सदा स्मर्तुं, हरेर्नामैव केवलम् ॥ ३ ॥

निश्श्वासे न हि विश्वासः, कदा रुद्धो भविष्यति ।
कीर्तनीयमतो बाल्यात्, हरेर्नामैव केवलम् ॥ ४ ॥

हरिः सदा वसेत् तत्र, यत्र भागवता जनाः ।
गायन्ति भक्तिभावेन, हरेर्नामैव केवलम् ॥ ५ ॥

अहो दुःखं महा दुःखं, दुःखात् दुःखतरं यतः ।
काचार्थं विस्मृतं रत्नं, हरेर्नामैव केवलम् ॥ ६ ॥

दीयतां दीयतां कर्णे, नीयतां नीयतां वचः ।
गीयतां गीयतां नित्यं, हरेर्नामैव केवलम् ॥ ७ ॥

तृणीकृत्य जगत्सर्वं, राजते सकलोपरि ।
चिदानन्दमयं शुद्धं, हरेर्नामैव केवलम् ॥ ८ ॥

Leave a Comment