Kiraata Varahi Stotram – किरात वाराही स्तोत्रम्

37

Kiraata Varahi Stotram – किरात वाराही स्तोत्रम्

अस्य श्री किरात वाराही स्तोत्र महामन्त्रस्य – दूर्वासो भगवान् ऋषिः – अनुष्टुप् छन्दः – श्री किरातवाराही मुद्रारूपिणी देवता – हुं बीजं – रं शक्तिः – क्लीं कीलकं – मम सर्वशत्रुक्षयार्थं श्री किरातवाराहीस्तोत्रजपे विनियोगः ।

उग्ररूपां महादेवीं शत्रुनाशनतत्परां ।
क्रूरां किरातवाराहीं वन्देहं कार्यसिद्धये ॥ १ ॥

स्वापहीनां मदालस्यामप्रमत्तामतामसीं ।
दम्ष्ट्राकरालवदनां विकृतास्यां महारवाम् ॥ २ ॥

ऊर्ध्वकेशीमुग्रधरां सोमसूर्याग्निलोचनां ।
लोचनाग्निस्फुलिङ्गाद्यैर्भस्मीकृत्वाजगत्त्रयम् ॥ ३ ॥

जगत्त्रयं मोदयन्तीमट्टहासैर्मुहुर्मुहुः ।
खड्गं च मुसलं चैव पाशं शोणितपात्रकम् ॥ ४ ॥

दधतीं पञ्चशाखैः स्वैः स्वर्णाभरणभूषितां ।
गुञ्जामालां शङ्खमालां नानारत्नविभूषिताम् ॥ ५ ॥

वैरिपत्नीकण्ठसूत्रच्छेदनक्षुररूपिणीं ।
क्रोधोद्धतां प्रजाहन्तृ क्षुरिके वस्थितां सदा ॥ ६ ॥

जितरम्भोरुयुगलां रिपुसंहारताण्डवीं ।
रुद्रशक्तिं परां व्यक्तामीश्वरीं परदेवताम् ॥ ७ ॥

विभज्य कण्ठदम्ष्ट्राभ्यां पिबन्तीमसृजं रिपोः ।
गोकण्ठमिव शार्दूलो गजकण्ठं यथा हरिः ॥ ८ ॥

कपोतायाश्च वाराही पतत्यशनया रिपौ ।
सर्वशत्रुं च शुष्यन्ती कम्पन्ती सर्वव्याधयः ॥ ९ ॥

विधिविष्णुशिवेन्द्राद्या मृत्युभीतिपरायणाः ।
एवं जगत्त्रयक्षोभकारकक्रोधसम्युताम् ॥ १० ॥

साधकानां पुरः स्थित्वा प्रवदन्तीं मुहुर्मुहुः ।
प्रचरन्तीं भक्षयामि तपस्साधकते रिपून् ॥ ११ ॥

तेपि यानो ब्रह्मजिह्वा शत्रुमारणतत्परां ।
त्वगसृङ्मांसमेदोस्थिमज्जाशुक्लानि सर्वदा ॥ १२ ॥

भक्षयन्तीं भक्तशत्रो रचिरात्प्राणहारिणीं ।
एवंविधां महादेवीं याचेहं शत्रुपीडनम् ॥ १३ ॥

शत्रुनाशनरूपाणि कर्माणि कुरु पञ्चमि ।
सर्वशत्रुविनाशार्थं त्वामहं शरणं गतः ॥ १४ ॥

तस्मादवश्यं शत्रूणां वाराहि कुरु नाशनं ।
पातुमिच्छामि वाराहि देवि त्वं रिपुकर्मतः ॥ १५ ॥

मारयाशु महादेवी तत्कथां तेन कर्मणा ।
आपदशत्रुभूताया ग्रहोत्था राजकाश्च याः ॥ १६ ॥

नानाविधाश्च वाराहि स्तम्भयाशु निरन्तरं ।
शत्रुग्रामगृहान्देशान्राष्ट्रान्यपि च सर्वदा ॥ १७ ॥

उच्चाटयाशु वाराहि वृकवत्प्रमथाशु तान् ।
अमुकामुकसञ्ज्ञाम्श्च शत्रूणां च परस्परम् ॥ १८ ॥

विद्वेषय महादेवि कुर्वन्तं मे प्रयोजनं ।
यथा नश्यन्ति रिपवस्तथा विद्वेषणं कुरु ॥ १९ ॥

यस्मिन् काले रिपुस्तम्भं भक्षणाय समर्पितं ।
इदानीमेव वाराहि भुङ्क्ष्वेदं कालमृत्युवत् ॥ २० ॥

मां दृष्ट्वा ये जना नित्यं विद्वेषन्ति हसन्ति च ।
दूषयन्ति च निन्दन्ति वाराह्येतान् प्रमारय ॥ २१ ॥

हन्तु ते मुसलः शत्रून् अशनेः पतनादिव ।
शत्रुदेहान् हलं तीक्ष्णं करोतु शकलीकृतान् ॥ २२ ॥

हन्तु गात्राणि शत्रूणां दम्ष्ट्रा वाराहि ते शुभे ।
सिंहदम्ष्ट्रैः पादनखैर्हत्वा शत्रून् सुदुस्सहान् ॥ २३ ॥

पादैर्निपीड्य शत्रूणां गात्राणि महिषो यथा ।
तांस्ताडयन्ती शृङ्गाभ्यां रिपुं नाशय मेधुना ॥ २४ ॥

किमुक्तैर्बहुभिर्वाक्यैरचिराच्छत्रुनाशनं ।
कुरु वश्यं कुरु कुरु वाराहि भक्तवत्सले ॥ २५ ॥

एतत्किरातवाराह्यं स्तोत्रमापन्निवारणं ।
मारकं सर्वशत्रूणां सर्वाभीष्टफलप्रदम् ॥ २६ ॥

त्रिसन्ध्यं पठते यस्तु स्तोत्रोक्त फलमश्नुते ।
मुसलेनाथ शत्रूम्श्च मारयन्ति स्मरन्ति ये ॥ २७ ॥

तार्क्ष्यारूढां सुवर्णाभां जपेत्तेषां न सम्शयः ।
अचिराद्दुस्तरं साध्यं हस्तेनाकृष्य दीयते ॥ २८ ॥

एवं ध्यायेज्जपेद्देवीमाकर्षणफलं लभेत् ।
अश्वारूढां रक्तवर्णां रक्तवस्त्राद्यलङ्कृताम् ॥ २९ ॥

एवं ध्यायेज्जपेद्देवीं जनवश्यमाप्नुयात् ।
दम्ष्ट्राधृतभुजां नित्यं प्राणवायुं प्रयच्छति ॥ ३० ॥

दूर्वास्यां संस्मरेद्देवीं भूलाभं याति बुद्धिमान् ।
सकलेष्टार्थदा देवी साधकस्तत्र दुर्लभः ॥ ३१ ॥

इति श्री किरातवाराही स्तोत्रम् ॥

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here